________________
८१२
चतुर्थः प्रकाशः। तयोर्मोहः पिता बीजं नायक: परमेश्वरः । ताभ्यामभिन्नस्तद्रक्ष्यः सर्वदोषपितामहः ॥ ६ ॥ एवमेते त्रयो दोषा नातो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥ ७ ॥ स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरतेस्त तादात्म्येनावभासते ॥ ८॥ . अराजकमहो ! विश्वं यदेभिः पश्यतोहरैः । . यिते ज्ञानसर्वस्खं स्वरूपमपि जन्मिनाम् ॥ ८ ॥ ये जन्तवो निगोदेषु येऽपि चासनमुक्तयः । सर्वत्रास्पृष्ट करुणा पतत्येषां पताकिनी ॥ १० ॥ मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा। येनोभय समायोगस्तैर्भवन् प्रतिषिध्यते ॥ ११ ॥ दोषक्षयक्षमाणां हि किमुपेक्षाक्षमाहताम् । जगडाहकरं यन शान्तं दोषप्रदीपनम् ॥ १२ ॥ व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः । लोकहयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ १३ ॥ वत्मातिसंकटमहो ! योगिभि: समुपाश्रितम् ।
रागद्वेषौ व्याघ्रसिंही पार्श्वतो यस्य तिष्ठतः ॥१४॥४८॥ अथ रागद्देषजयोपायमुपदिशति
अस्ततन्तैरतः पुंभिनिर्वाणपदकाक्षिभिः ।। विधातव्यः समत्वेन रागहेषहिषज्जयः ॥ ४६॥ . यत एवंविधौ रागद्देषी, प्रतः कारणादस्ततन्ट्रनिरस्तप्रमादैः