________________
८१२
योगशास्त्रे
तथा
रागादितिमिरध्वस्त ज्ञानेन मनसा जनः । अधेनान्ध वाकृष्टः पात्यते नरकावटे ॥ ४८॥
रागादय एव सम्यग्दर्शनविघातहेतुत्वात् तिमिरमणोविप्लव: तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन तथाविधेन मनसा आकष्टो जनो नरकावटे नरक कूप पात्यते। केन क इव ? अन्धेनान्ध इव। रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः, तस्यैव मार्गदर्शकत्वात्। ततो यथाऽन्धेनान्धः समाक्ष्याऽवटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकावटे पात्यते । . .
अत्रान्तरश्लोकाः
द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीतिं चाहुषं मनीषिणः ॥ १ ॥ । उभावेतौ दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोक हानां मूलकन्दौ प्रकीर्तितौ ॥ २ ॥ कः सुखे विस्मयस्मेरो दुःखे कः कपणो भवेत् ? । मोक्षं को नाप्नया रागद्देषौ स्यातां न चेदिह ॥ ३ ॥ रागण ह्यविनाभावी हेषो देषेण चेतरः । तयोरेक तरत्यागे परित्यक्तावुभावपि ॥ ४ ॥ दोषाः स्मरप्रभृतयो रागस्य परिचारकाः । मिथ्याभिमानप्रमुखा हेषस्य तु परिच्छदः ॥ ५ ॥