Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः।
८५८ सर्वाणि चामून्यौनोदर्यविशेषाः। योषितस्तु अष्टाविंशतिकवलाहारप्रमाणम्, यदाह ;'बत्तोसं खलु कवला आहारो कुच्छिपूरभो भणियो। पुरिसम्म, महिलिपाए अट्ठावीसं भवे कवला ॥ १ ॥ तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् । ......
तथा, वर्ततेऽनयेति वृत्तिर्भेक्ष्यम्, तस्याः संक्षेपणं हास: । तच्च दत्तिपरिमाणरूपम् । एकहितवाद्यगारनियमो रथ्याग्रामाधंग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र-काल-भावाभिग्रहा अन्तर्भूताः ।
तथा, रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनाम्, अतएव विकृतिशब्दवाच्यानां मद्यमांसमधुनवनीतानां दुग्ध-दधि-कृत-तैल-गुडा-अवग्राह्यादीनां च त्यागो वर्जन रसत्यागः। __तथा, तनुः कायस्तस्याः क्लेशः शास्त्राविरोधेन बाधनं तनुकेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ?। उच्यतेशरीर-शरीरिणोः क्षौरनौरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टासनकरणनाप्रतिकर्मशरीरत्वकेशोत्लुचनादिना चावसेयः। ननु परीषहेभ्यः कोऽस्यं विशेषः ?। उच्यते-स्वकतलेशानुभवरूपस्त नुक्लेशः, परोषहास्तुं स्वपरक्तक्लेशरूपा इति विशेषः ।
तथा, लीनता विविक्तशय्यासनता। सा चैकान्तेनाबाधेसंसक्त स्त्रीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहा
(१) हात्रिंशत् खल कवला आहारः कूक्षिपूरको भणितः ।
· पुरुषस्य, महिलाया अष्टाविंशतिर्भवेयुः कवलाः॥१॥
Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102