Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 85
________________ चतुर्थः प्रकाशः । अथ नास्ति, तर्हि मृषाऽसौ वदतीति भावाभावविचिन्तनात् चमितव्यमेव, यदाह - आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥ १ ॥ " - क्रोधदोषचिन्तनादपि क्षमितव्यमेव । क्रुद्धस्य तावद् ध्रुवं कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसांव्रतलोपः क्रुद्धस्य चापवदतः सूनृतव्रतलोपः, विस्मृतप्रव्रज्या प्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयव्रतलोपः, द्वेषात् परपाखण्डिनीष्वब्रह्मा सेव मानस्य ब्रह्मचर्यव्रतलोपः, प्रद्दिष्टस्याविरतेषु गृहस्थेषु सहायबुद्ध्या मूर्च्छापि स्यादित्यपरिग्रहव्रतलोपः । उत्तरगुणभङ्गप्रसङ्गे तु का कथा ? | क्रुश्च गुरुनप्यासातयेदधिचिपेद् वा । इति क्रोधदोषचिन्तनम् । बालस्वभावचिन्तनाञ्च क्षन्तव्यम् । बालोऽज्जस्तत्स्वभावचिन्तनं पुनर्बालः कदाचित् परोक्षमाक्रोशति कदाचित् प्रत्यक्षम् । आक्रोशन्नपि कश्चित् ताडयति, कश्चिद् मारयति, कश्चिद धर्मभ्रंशमपि चिकीर्षति, तद् दिष्ट्या वर्धामहे मामेष परोक्षमाक्रोशति न प्रत्यक्षम्, प्रत्यक्षं वाऽऽक्रोशति न ताडयति, ताडयति वा न मारयति, मारयति वा न धर्माद् भ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एष ममेति मन्यते, यदाहु: ; 'अक्कोसहणणमारण्धम्मब्भंसाण बालसुलहाण । लाभं मन्नइ धीरो जहोत्तराणं अभावमि ॥ १ ॥ (१) वाक्रोशहननमा रणधर्मभ्भ्रंशानां बालसुलभानाम् । लाभं मन्यते धीरो यथोत्तराणामभावे ॥ १ ॥ ११० ८७१

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102