Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
योगशास्त्र
रागाद देषात् तथा मोहाद भवेद वितथवादिता। तदभावे कथं नामाईतां वितथवादिता ? ॥ १६ ॥ ये तु रागादिभिर्दोषैः कलुषोकतचेतसः । न तेषां सूतृता वाचः प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि यागहोमादिकर्माणीष्टानि कुर्वताम् । वापीकूपतडागादिन्यपि पूर्तान्यनेकशः ॥ १८ ॥ पशूपघाततः स्वर्गलोकसौख्यं विमार्गताम् । हिजेभ्यो भोजनदत्तः पिटटप्तिं चिकीर्षताम् ॥ १८ ॥ वृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् ।। पञ्चवापत्स नारीणां पुनरुहारकारिणाम् ॥ २० ॥ अपत्यासम्भवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ २१ ॥ श्रेयोबुड्याऽध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यासप्ततन्तौ सौधुपानविधायिनाम् ॥ २२ ॥ गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम्। जलादिस्नानमात्रेण पापशुद्धाभिधायिनाम् ॥ २३ ॥ वटाखत्यामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रोणनमानिनाम् ॥ २४ ॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् ।
योपिहिडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥ २५ ॥ तथा-जटापटलभस्माङ्गरागकोपोनधारिणाम् ।।
अर्कधत्तूरमालूरैर्देवपूजाविधायिनाम् ॥ २६ ॥
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102