Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
योगशास्त्रे
योजनानि मुक्का मध्येऽशीती योजनेषु अणपत्रित्र- पणपवित्रप्रभृतयस्तथैव दक्षिणोत्तर व्यवस्थिता अष्टौ व्यन्तरनिकायाः, तथैव द्दौ विन्द्रौ ।
ददद
तथा, रत्नप्रभायाः पृथिव्या: समतलादुपरि सप्तसु नवत्यधिकेषु योजनशतेषु ज्योतिषामधस्तल प्रदेश: तदुपरि दशयोजनेषु सूर्यः, तदुपर्यशीतियोजनेषु चन्द्र:, तदुपरि विंशतियोजनेषु तारा ग्रहाच । एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहल्येन । एकादशभियजनगतैरेकविंशत्युत्तरे जम्बूद्दीपक मे रूम स्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववर्ज भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतैरेकादशोत्तरेरस्पृशन् मण्डलि
1
क्या तिष्ठति, यदाह ; --
'एक्कारसेकवौसा सयमेक्काराहित्रा य एक्कारा ।
मेरु अलोगा बाहं जोइसचक्कं चरई ठाई ॥ १ ॥
अत्र सर्वोपरि किल स्वातिनक्षत्रम्, सर्वेषामधो भरणिनक्षत्रम्, सर्वदक्षिण मूलः, सर्वोत्तरश्चाभीचिः I तत्र जम्बूद्दीपे हौ चन्द्रौ हौ सूर्यो । लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादशचन्द्राः सूर्याश्च । कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च । पुष्करवरार्धे द्वासप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति । अष्टाशीतिर्ग्रहाः, अष्टाविंशति
(१) एकादशैकविंशतिः शताम्बे का दशाधिका चैकादश । मेरु-लोकाभ्यां बहिज्यौतिक चरति तिष्ठति ॥ १ ॥
Page Navigation
1 ... 98 99 100 101 102