Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः ।
आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वखु । तव्रित्यमेवैकमनित्यमन्यदिति त्वदानादिषतां प्रलापाः ॥ १ ॥
इति ॥ १०३ ॥
लोकस्वरूपमेवाह
८८३
लोको जगचयाकीर्णो भुवः सप्ताव वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४॥
लोक उक्तखरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्वरूपेणाकर्णो व्याप्तः, वदन्ति हि 'अधोलीक:, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभाशर्कराप्रभा- वालुकाप्रभा - पङ्कप्रभा धूमप्रभा-तमः प्रभा महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च, तद्यथाघर्मा, वंशा, शैला, अञ्जना, अरिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नप्रभाया अधोऽधः पृथुतराः । तासु विंशत्, पञ्चविंशतिः, पञ्चदश, दश, त्रीण्येकं पञ्चोनं नरकावासशतसहस्त्रं, पञ्चैव नारकावासा यथाक्रमम् । ताच वेष्टिता: परिवृता अधः पार्श्वतश्च । कैः १ । घनो निबिडो नं तु द्रवो यो ऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः. तनुश्वासौ वातश्च तनुवातः, तैः । किं विशिष्टैः ? | महाबलैः
पृथ्वोधारणसमर्थेः ।
तत्र सर्वासां पृथिवीनामधी घनोदधयः मध्यीधे विंशतियोजन सहस्राणि, महावाताः उत्सेधे घनोदधितोऽसंख्यानि योजन
Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102