Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 96
________________ योगशास्त्रे, सहस्राणि तनुवाताश्च महावर्तिभ्योऽसंख्यानि योजन सहस्त्राणि, ततोऽप्यसंख्ये यानि योजन सहस्राण्याकाशम् । एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्य मानमिति । घनोदधिवलयविष्कम्भमानं रत्नप्रभायाः षड्योजनानि, घनवातवलयविष्कम्भमानमर्धपञ्चमयोजनानि, तनुवातवलयविष्कम्भमानं सार्धं योजनम् । रत्नप्रभावलयमानादुपरि योजन विभागो घनोदधौ, घनवाते गव्यूतम्, तनुवाते च गव्यूतत्रिभागो वर्त्तते । एतच्छर्करा प्रभायां वलयमानम् । एवं शर्करा प्रभावलयमाना'दुपर्ययमेव प्रक्षेपः । एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथिवीं यावत्, यदाह ४ • 'तिभागो गाउयं चैव तिभागो गाउयरस य । आधुवे पक्वेवो अहो अहो जाव सत्तमिश्रा ॥ १ ॥ है प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवमेयम्, तद्यथा 'इस्सतिभाग पडणा य पंच वलयाण जोश्रणपरिमाणं । एगं बारसभागा सत्त कमा बीयपुढवोए ॥ १ ॥ (१) बिभागो गव्यतं चैव त्रिभागो गव्य्तस्य च । बादिधुने प्रक्षेपोऽधोऽधो यावत् सप्तमीम् ॥ १ ॥ (२) षट्कविभागः पन्नाश्च पञ्च वलयानां योजनपरिमाणम् । एकं द्वादशभागाः सप्त क्रमेण द्वितीयष्टथिव्याम् ॥ १ ॥

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102