Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८८
चतुर्थः प्रकाशः। कुर्वतां गौतनृत्यादि पुती वादयतां मुहुः ।। मुहुर्वदननादेनातोद्यनादविधायिनाम् ॥ २७ ॥ असत्यभाषापूर्व च मुनीन् देवान् जनान् नताम् । विधाय व्रतभङ्गं च दामोदासत्वमिच्छताम् ॥ २८ ॥ ग्रहतां मुञ्चतां भूयो भूयः पाशुपतं व्रतम् । भेषजादिप्रयोगेण यूकालिकं प्रणिन्नमाम् ॥ २८ ॥ नरास्थिभूषणभृतां शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टानुपूरधारिणाम् ॥ ३० ॥ मद्यमांसाङ्गनाभोगप्रसतानां निरन्तरम् ।
पुतानुबघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥ तथा
अनन्तकायकन्दादिफलमूलदलाशिनाम् । .. कलत्रपुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥
तथा
भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । - योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ॥ २३ ॥
अन्येषामपि जैनेन्द्रशासनास्सृष्टचेतसाम् । क धर्मः क फलं तस्य तस्य स्वाख्यातता कथम् ? ॥ ३४॥ जिनेन्द्रस्यापि धर्मस्य यदनामुत्न वा फलम् । मानुषङ्गिकमेवेदं मुख्यं मोक्ष प्रचक्षते ॥ ३५ ॥ सस्यहतौ कषौ यहत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तहत् सांसारिकं फलम् ॥ ३ ॥
१११
Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102