Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः |
'पुढविदगश्रगणिमारुयवणस्स इबितिच उपणिं दिज्जीवे । पेहुप्पेहपमज्जणपरिट्ठवणमणोवईकाए ॥ १ ॥
तथा, 'ऊनण् परिहाणे' अस्य धातोः सुष्ठु जन्यते ऽप्रियमात्राश्रयणं मितीक्रियते इति सून्, सून् च तदृतं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य पैशून्यासभ्यत्व- चापलाविलत्व - विरलत्व-संभ्रान्तत्व-मन्दिग्धत्व-ग्राम्यत्व- रागद्दे षयुक्तत्वोपधावद्यविकत्थन परिहारेण माधुदार्य स्फुटत्वाभिजात्यपदार्थाभिव्याहाराऽई दचनानुसारार्थत्वार्थिजनभावग्राहकत्वदेशकालोपपन्नत्वयतमितहितत्वैर्युक्तं वाचनमच्छ'नप्रश्नव्याकरणादिरूपमिति मृषावादपरिहाररूपं सूनृतम् ।
शौचं संयमं प्रति निरुपलेपता । सा चादत्तादानपरिवाररूपा । लोभात हि परधनं जिघृक्षन् संयमं मलिनयति । लौकिकां प्रप्याहु:
८७१
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थेषु शुचिः स शुचिर्न मृदारिशुचिः शुचिः ॥ १ ॥
अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादान परिहाररूपं शौचम् ।
नवब्रह्मगुप्तसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्यं वृहत्त्वाद् ब्रह्मात्मा तत्र चरणं ब्रह्मचर्यमाला
(१) पृथिवोदकाग्निमारुतवनस्पतिह्नित्रिचतुष्पञ्चेन्द्रियाजीवाः । प्रेथेोपेच्याममार्जनपरिष्ठापन मनोवाक्कायाः ॥ १ ॥
Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102