Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
.
योगशास्त्रे खाख्यातं धर्ममाहसंयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ६३ ॥
स तु धर्मो दशधा दशप्रकारः। तत्र संयमः प्राणिदया सप्तदशविधः। तत्र पृथिव्यप्तेजोवायुवनस्पतिहित्रिचतुष्पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणानुमतिभिश्च संरम्भ समारभारम्भवर्जनमिति नवधा। अजौवरूपाण्यपि पुस्तकादौनि दुःषमादोषात् प्रज्ञाबलहीनशिष्यानुग्रहार्थं यतनया प्रतिलेखनाप्रमार्जनापूर्वं धारयतोऽजीवसंयमः। तथा, प्रेक्ष्य चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं, तत्र शयनासनादीनि कुर्वीतंति प्रेक्षासंयमः। गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः। प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादौन कुर्वतः स्थण्डिलाच्च स्थण्डिलं संक्रामतः सचित्ताचित्तमित्रासु पृथिवीषु रजोऽवगुण्ठितौ चरणी प्रमाय गच्छतो वा प्रमार्जनासंयमः। भक्तपानादिकमनेषणीयं वस्त्रपात्रादिक चानुपकारकं संसक्तं वा निर्जन्तुके स्थगिडले परिष्ठापयत: परिष्ठापनासंयमः । मनसोऽभिद्रोहाभिमानादिभ्यो निवृत्तिर्धर्मध्यानादिषु च प्रवृत्तिर्मन:संयमः । वाचो हिंस्रपरुषादिवचोभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः। कायस्य धावनवलानादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूप: संयमः, यदाहुः ;
Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102