Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८०६ योगशाले ' अथास्य धर्मस्य माहात्मामाह-.. धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत्स्युरधर्माधिष्ठितात्मनाम् ॥ ६४ ॥ कल्पद्रुमः कल्पवृक्षः, पादिशब्दाञ्चिन्तामण्यादयः परिग्टह्यन्ते, से वनस्पतिरूपा उपलरूपाच धर्मवज्ञाः सुषमादिकालभाविभ्यो ऽभीष्टफलदायिनो भवन्ति। ते एव धर्महीनानां दुःषमादिकालभाविनाम्, प्रास्तामभौष्टं न ददति, गोचरेऽपि न भवन्ति । अवार्थप्राप्तिः फलम् ॥ ८४ ॥ .
तथा
अपार व्यसनाम्भोधौ पतन्तं पाति देहिनम्। सदा सविधव]कबन्धुर्धर्मोऽतिवत्सलः ॥ ६५ ॥
स्पष्टः । अत्रानर्थपरिहारः फलम् ॥ ४५ ॥ तथा
आप्नावयति नाम्भोधिरावासयति चाम्बुदः । यन्महीं, स प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ६६ ॥
अनान/परिहारोऽर्थप्राप्तिश्च फलम् ॥१६॥ इदानीं साधारणधर्मस्य साधारणं फलमाहन ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ६७॥
Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102