Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८०४
योगशास्त्रे इति बालस्वभावचिन्तनम् । स्वकतकर्मफलाभ्यागमचिन्तनादपि क्षन्तव्यमेव । पूर्ववतकर्मणां फलाभ्यागम एषः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाह ;--
सव्वो पुवकयाणं कम्माणं पावफल विवागो। प्रवराहेसु गुणे सु अ निमित्तमित्तं परो होइ ॥ १ ॥ इति स्वकतकर्मफलाभ्यागमचिन्तनम् । क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम् - अनायासः क्रोधनिमित्त प्रायश्चित्ताभाव:, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम्, स्तिमितप्रसन्नान्तरात्म त्वम्, प्रहरण सहायान्वेषणाभाव:, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अखेदता, निष्कम्मता, परप्रहारवेदनाऽभाव इति क्षमागुणाः। इति क्रोधविपक्ष: क्षमाधर्मः । ___ अथ मार्दवम् - मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नौचैवृत्तिरनुत्सेकश्च, तदुभयमपि मदनिग्रहाद् भवति । मदाश्च जातिमदादयः पूर्वमुक्ताः। ततश्च जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्तीत्यादिमददोषपरिहारहेतुर्मानप्रतिपक्षो मार्दवम् ।
अथ ऋजुता--ऋजुरवक्रमनोवाक्कायकर्मा तस्य भावः
(१) सर्वः पूर्वकतानां कर्मणां पापफलविपाकः ।
अपराधेषु गुणेषु च निमित्तमात्वं परो भवति ॥ १ ॥
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102