Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 81
________________ - चतुर्थः प्रकाशः। प्रतिक्षणं सम्भवन्त्यावपि संवरनिर्जर। ... प्रकष्येते यदा मोक्षं प्रसुवात तदा ध्रुवम् ॥ ॥ निर्जरा निर्जरां कुर्वस्तपोभिईि विधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमानोति शुद्धधीः ॥ १०॥ एवं तपोभिरभितः परिचीयमाना स्याविर्जरा सकलकर्मविघातहेतुः। सेतुर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् ॥ ११ ॥ ॥ निनराभावना ॥१॥ अथ धर्मस्वाख्यातभावना खाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि न मज्जेद् भवसागरे ॥ २ ॥ सुष्टु कुतीथिकापेक्षया प्राधान्येन, प्रविधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्तमानः ! कैः ? । जिनोत्तमैरवधिजिनादिभ्यः प्रकष्टः केवलिभिः । कथम्भूतैः ? । भगवद्भिर्व्याख्यातस्वरूपैरहनिरिति यावत् । स्वाख्याततामेवाह-यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन्, जन्तुरिति गम्यते, न मजेद ब्रुडेद भवसमुद्रे ॥४२॥

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102