Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८५८
योगशास्त्रे करणस्य प्राणोत्क्रान्तिं यावदवस्थितिरिति। तदेतद् हिविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषस्तद्विशिष्टमनशनमिङ्गिनी। अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तथाविध एव स्थण्डिले एकाको कतचतुर्विधाहारप्रत्याख्यानश्छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति। इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सष्टशरोरोप करणममत्व स्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवो. वाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वोहर्तन-परिवर्तनादि कुर्वाण: समाधिना कालं करोति, तस्य भक्ताप्रत्याख्यानमनशनम् । - अथौनोदर्यम्-ऊनमवममुदरं यस्य स जनोदरस्तस्य भाव प्रौनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम्, उपाधौनोदर्यम्, अर्धानोदर्यम्, प्रमाणप्राप्तात् किञ्चिदूनौनोदयं च। तत्राहारः पुंसो हात्रिंशत्कवलप्रमाणः। कवलश्चोत्कृष्टापकष्टी वर्जयित्वा मध्यम इह ग्राह्यते। स चाविकतखमुखविवरप्रमाणः। तत्र कवलाष्टकाभ्यवहारोऽल्पाहारौनोदर्यम् । अर्धस्य समीपमुपाधैं हादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो हादश कवला उपाधौनीदर्यम् । षोडश कवला अौनोदय॑म् । प्रमाणप्राप्त आहारी हात्रिंशत् कवलाः, स चैकादिकवलैरुनचतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किञ्चिदूनौनोदय॑म् । चतुर्विधऽम्यस्मिकैककवलहानन बहनि सानानि जायन्ते ।
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102