Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८५६
योगशास्त्रे समूहः। कुलसमुदायो गणः कोटिकादिः । सङ्घः साधुसाध्वोश्रावकश्राविकासमुदायः । एषामाचार्यादीनामनपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिधर्मसाधनैरुपग्रहः शुश्रूषा भैषज क्रिया, कान्ताररोगोपसर्गेषु परिपालनम्, एवमादि वैयावृत्त्यम् । .... अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविधः - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेशश्चेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितबलाधानाय वा -परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आनायो घोषविशुद्धं परिवर्तनम्, गुणनम्, रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णन मिति यावत् ।
अथ विनयः -विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः । स चतुर्धा, ज्ञान-दर्शन-चारित्रोपचारभेदात् । तत्र सबहुमानं ज्ञान ग्रहणाभ्यासस्मरणादि ज्ञानविनयः। सामायिकादी लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानि:शशितत्वादिना दर्शनविनयः। चारित्रवतश्चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादि उपचारविनयः, परोक्षेष्वपि कायवाग्मनोभिरञ्जलिक्रियागुणसंकीर्तनानु स्मरणादिरुपचारविनयः । ... अथ व्युत्सर्गः-व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः। स विविध:-बाह्य आभ्यन्तरश्च । तत्र बाटो द्वादशादिभेदस्योपधेरतिरिक्तास्य, अनेषणीयस्य संसक्तस्य वाऽनपानादेर्वा त्यागः ।
Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102