Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः।
५१५ अथ वैयावृत्त्यम्-व्यावृत्तो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरस्तस्य भावः कर्म वा वैयावृत्त्यम् । व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो बाह्यद्रव्यासम्भवे स्वकायेन तदानुकूल्यानुष्ठानं च। तच्चाचार्योपाध्यायस्थविरतपस्विशैक्षग्लानसाधर्मिककुलगणसङ्घलक्षणविषयभेदेन दशधा । तत्र स्वयमाचरति परांचाचारयति, पाचर्यते सेव्यत इति वाऽऽचार्यः । स पञ्चधाप्रव्राजकाचार्यः, दिगाचार्यः, उद्देशकाचार्यः, समुहेशानुज्ञाचार्यः, अाम्नायार्थवाचकाचार्य इति । तत्र सामायिकव्रतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुन्जायी दिगाचार्यः । प्रथमत एव श्रुतमुद्दिशति यः स उहेशाचार्यः। उहेतृगुवंभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः । पाम्नायमुत्सर्गापवादलक्षणमथं वक्ति यः स प्रवच. नार्थकथनेनानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आन्नायार्थवाचकः, आचारगोचरविषयं स्वाध्यायं वा। प्राचार्याल्लब्धानुज्ञाः साधव उप समीपेऽधीयतेऽस्मादित्युपाध्यायः । स्थविरो · वृक्षः। स श्रुत-पर्याय-वयोभेदात् त्रिविधः। श्रुतस्थविरः समवायाग यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थ विरः सप्तत्यादिवर्षजीवितः। विकष्टं दशमादि किञ्चिबानषण्मासान्तं तपः कुर्वस्तपस्खौ। अचिरप्रव्रजितः शिक्षाहः शैक्षः । रोगादिक्लिष्टशरीरो ग्लानः। साधर्मिकाः भमानधर्मिणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चन्द्रादि। गच्छत्वेकाचार्यप्रणेयः साधु
१०८
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102