Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 68
________________ योगशास्त्रे. दिभिः, नारकाच विविधया वेदनया, मनुष्याश्च क्षुत्-पिपासाव्याधि-दारिद्र्यादिना, देवाश्च • पराभियोग-किल्विषत्वादिनाऽसहेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । इत्येषामकामा निर्जरा। ननु सकामत्वाकामत्वस्वरूपेण निर्जराया हैविध्यं कुत्र दृष्टम् ? इति प्रश्ने स्पष्टं दृष्टान्तमाह-कर्मणामसहेद्यादीनां . फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवातप्रदेशपलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं यथा फलानां पाकस्य स्वत उपायतश्च हैविध्यं दृश्यते लहत् कर्मणामपि, इत्युक्तम्-सकामा कामवर्जिता च निर्जरा इति । ननु फलयाकस्य हैविध्ये कर्मणां पाकस्य किमायातम् ? । नैवम् , पाकस्य निजरारूपत्वात् । ततो यथा फलपाको देधा भवति तथा कर्मनिर्जरापि ॥ ८७॥ अथ सकामनिर्जराया हेतुं स्पष्टदृष्टान्तेनाह सदोषमपि दीप्तेन सुवर्णं वह्निना यथा। तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ॥८॥ सदोषमपि कौटिकादिदोषयुक्तमपि सुवर्णं दीप्तेन वहिना तप्यमानं यथा विशुष्यति तथा जीवोऽप्यसद्देद्यादिकर्मदोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात्, यदाह रसरुधिरमांसमेदोऽस्थिमज्जाशुक्राण्यनेन तप्यन्ते। .. कर्माणि चाराभानीत्यतस्तपो नाम नैरुक्तम् ॥ १ ॥

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102