Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 73
________________ चतुर्थः प्रकाशः । ९६१ क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गोतार्थस्य शिष्यस्य भवति । स हि पद्मकदशक-पञ्चदशकक्रमेण प्रायश्चित्तानि गुरुलघुपराधानुरूपाणि विज्ञाय योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च । अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणं मिथ्यादुष्कृत संयुक्तेन पश्चात्तापेन 'पुनरेवं न करिष्यामि' इति प्रत्याख्यानम् । मिश्रमालोचनप्रतिक्रमणरूपम्, प्रागालोचनं पश्चाद गुरु सन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तान्रपानोपकरणशय्यादिविषयस्त्यागः 1 गमनागमन सावद्यस्वप्नदर्शन व्युत्सर्गोऽनेषणौयादिषु त्यक्तेषु नौसन्तरणोञ्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः । तपस्तु च्छेदग्रन्यानुसारेण जीतकल्पानुसारेण वा येन केन - चित् तपसा विशुचिर्भवति तत् तद् देयमासेवनीयं च | छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत प्रारोपणम् । तथा, अवस्थाप्यत भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणम्, तपः कर्म चास्योत्थाननिषदत्वादिकर्मकरणाशक्ति इत्यवस्थाप्यस्वनिषेधादनवस्थाप्यस्तस्य

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102