Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८३६
योगशास्त्रे . एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां
दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । जात्वेवं ममतानिरासविधये ध्यायन्तु शुद्धाशया अथान्तं भवभावनां भवभयच्छे दोन्मुखत्वं यदि ॥ ८ ॥
___॥ संसारभावना ॥ ६७ ॥ अथैकत्वभावनां श्लोकहयेनाह. एक उत्पद्यते जन्तुरेक एव विपद्यते ।
कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८॥
एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहण मुपलक्षणम्, इहजन्मक्तानाम प्यनुभवात्, यदाहुभगवन्तः ;-परलोअकडाकम्मा इहलोए वेइज्जति, इहलोअकडा कम्मा इहलोए वेइज्जति ॥ ६८ ॥
तथा
अन्यैम्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरकक्रीडे क्लिश्यते निजकर्मभिः ॥६६॥ तेनेकेन जन्तु नाऽर्जितं महारम्भपरिग्रहादिनोपार्जितं वित्तमन्यैः सम्बन्धिबन्धुभृत्यप्रभृतिभिः सम्भूय मिलित्वा भूयः पुनः (१) परलोककृतानि कर्माणि इहलोके वेद्यन्ते ।
इहलोके कृतानि कर्माणि इहलोके वेद्यन्ते । . .
Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102