Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 52
________________ . ८४० योगशास्त्रे भेदं विद्वान् न पीयेत पिटदुःखेऽप्युपस्थिते । । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ ८ ॥ अस्वत्वेन एहीतः सन् पुत्रोऽपि पर एव हि । स्व कोयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ८ ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तु न्यहो ! निबध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुवि तथभावनावर्जनाद भजेत ममताच्छिदे सततमन्यत्वभावनाम् ॥ १० ॥ ॥ अन्यत्वभावना ॥ ७१ ॥ अथाशुचित्वभावनामाहरसासग्मांसमेदोऽस्थिमज्जाशुक्रान्ववर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥७२॥ रसो भुक्तपीतानपानपरिणामजो निस्यन्दः, अमृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम्, अस्थि को कसं मेदसम्भवम्, मज्जासारोऽस्थिसम्भवः, शुक्र रेती मज्जासम्भवम्, अन्वं पुरीतत्. वर्ची विष्ठा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम्-न कथञ्चिदित्यर्थः ॥ १२ ॥ ये त्वत्रापि शुचित्वमानिनस्तानुपालभते - नवस्रोतःस्रवदिखरसनिःस्यन्दपिच्छिले ।.. देहेऽपि शौचसङ्कल्पो महन्मोहविजम्भितम् ॥७३॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102