Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः।
८४३ . 'योगो वौरिअं थामो उच्छाह परिकमो तहा चेट्टा।
सत्ती सामत्यं चित्र जोगस्म हवंति पज्जाया ॥१॥ एते च स्थविरस्य दुर्बलस्य वा पालम्बनयध्यादिवज्जोबस्योपग्राहकाः। तत्र मनोयोग्यपुगलामप्रदेशपरिणामो मनीयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, काययोग्यपुगलामप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः। एते योगाः, यस्मात् शुभं सहेद्यादि, अशुभमसहेद्यादि कर्मावन्ति प्रसुवते, तेन कारणेनाश्रवा इति कीर्तिताः, पाश्रूयते कर्मेभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम्, स्वातन्त्राविवक्षणात्, यथा असिग्छिनत्ति इति ॥ ७४ ॥
'योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम्, कार्याणां च . कारणानुकारित्वं दृष्टम्, इति शुभानां शुभकर्महेतुत्वम्, प्रशुभानामशभकर्म हेतुत्वं च विवेकेन दर्शयतिमैववादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ ७५ ॥ . . मैत्रीमुदिताकरुणोपेक्षालक्षणाभिश्चतसृभिर्भावनाभिर्वासितं भावितं चेतो मन: कर्तु, शुभात्मक. पुण्यात्मकं कर्म सूते । तच्च सहेद्य-सम्यक्त-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्र-लक्षणम्। तदेव मनः, कषायाः क्रोधादयो, विषिखन्ति बन्नन्ति संसारिणं
(१) योगो वीर्य स्थामोत्माहः पराक्रमस्तथा चेटा।
शनिः सामर्थमेव योगस्य भवन्नि पर्यायाः ॥१॥
Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102