SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः। ८४३ . 'योगो वौरिअं थामो उच्छाह परिकमो तहा चेट्टा। सत्ती सामत्यं चित्र जोगस्म हवंति पज्जाया ॥१॥ एते च स्थविरस्य दुर्बलस्य वा पालम्बनयध्यादिवज्जोबस्योपग्राहकाः। तत्र मनोयोग्यपुगलामप्रदेशपरिणामो मनीयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, काययोग्यपुगलामप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः। एते योगाः, यस्मात् शुभं सहेद्यादि, अशुभमसहेद्यादि कर्मावन्ति प्रसुवते, तेन कारणेनाश्रवा इति कीर्तिताः, पाश्रूयते कर्मेभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम्, स्वातन्त्राविवक्षणात्, यथा असिग्छिनत्ति इति ॥ ७४ ॥ 'योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम्, कार्याणां च . कारणानुकारित्वं दृष्टम्, इति शुभानां शुभकर्महेतुत्वम्, प्रशुभानामशभकर्म हेतुत्वं च विवेकेन दर्शयतिमैववादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ ७५ ॥ . . मैत्रीमुदिताकरुणोपेक्षालक्षणाभिश्चतसृभिर्भावनाभिर्वासितं भावितं चेतो मन: कर्तु, शुभात्मक. पुण्यात्मकं कर्म सूते । तच्च सहेद्य-सम्यक्त-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्र-लक्षणम्। तदेव मनः, कषायाः क्रोधादयो, विषिखन्ति बन्नन्ति संसारिणं (१) योगो वीर्य स्थामोत्माहः पराक्रमस्तथा चेटा। शनिः सामर्थमेव योगस्य भवन्नि पर्यायाः ॥१॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy