________________
'८४४
* योगशास्त्रे
काम्यमानाः सन्त इन्द्रियार्थाः स्पर्शादयो विषयाः, कषायाश्च विषयाश्च तैराक्रान्तं वशीकतं वितनोति करोत्यशुभमसद्देद्यादि कर्म । ७५ ॥
तथा
शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ ७६ ॥ निर्मिथ्यमवितथम्, तच्च जैनमेव वचनं भवतीत्याह-श्रुतज्ञानाश्रितं वचः, श्रुतज्ञानं हादशाङ्गं गणिपिटकं तदाश्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्गणीऽर्जनाय ॥ ७६ ॥
तथा
शरीरेण सुगुप्तेन शरौरौ चिनुते शुभम् ।' सततारम्भिणा जन्तुघातकनाशुभं पुनः ॥ ७७ ॥ शरीरण कायेन सुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन शरीरौ · जन्तुश्चिनुते करोति शुभं सद्देद्यादि कर्म । सततारम्भिणा पुनमहारम्भिणा अत एव जन्तुघातकेन प्राणिव्यापादकेनाशभं कर्मासदेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद न कार्यकारणभावविरोधः ॥ ७७॥