________________
.
४५
चतुर्थः प्रकामः। शुभयोगानां शुभफलहेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरण त्वशुभयोगानामशभफलहेतुत्वं वैराग्योत्पादनाय प्रतिपादनौयम्, इत्युक्तानुक्तानशुभहेतून् संग्टह्नाति
कषाया विषया योगाः प्रमादाविरती तथा। मिथ्यात्वमातरौट्रे चेत्यशुमं प्रति हेतवः ॥ ७८॥ कषायाः क्रोध-मान-माया-लोभलक्षणाः, नोकषायाच कषायसहचरिता हास्यरत्यरतिभयशोकजुगुप्सापुंस्त्रोनपुंसकवेदलक्षणा नव कषायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाक्कायकर्मलक्षणाः, प्रमादोऽज्ञान-संशय-विपर्ययराग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदुष्पणिधानभेदैरष्टधा, प्रविरतिनियमाभावः, मिथ्यात्वं मिथ्यादर्शनम्, प्रात-रौद्रे ध्यानभेदावुतापूर्वो, इत्येतेऽशुभं कर्म प्रति हेतवः। नन्वेते बन्ध प्रति हेतुत्वेनोक्ताः, यद् वाचक मुख्याः ;-मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः इति. तत् किमावभावनायां बन्धहेतूनामेतेषामभिधानम् ?। सत्यम, आश्रवभावनेव बन्धभावनापि न महद्भिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात्। आश्रवेण ह्युपात्ता: कर्मपुङला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह;-सकषायत्वाज्जीवः कर्मणो योग्यान् पुहलानादत्ते स बन्धः इति । ततश्च बन्धाशवयोर्भेदो न विवक्षितः । ननु कर्मपुङलैः सह क्षौरनौरन्यायेनात्मन: सम्बन्धो बन्ध उच्यते, तत् कथमाश्रव एव बन्धः । युक्तमेतत्, तथाप्यात्रवेणानु