________________
योगशास्त्रे पात्तानां कर्मपुहलानां कथं बन्धः स्यात् । इत्यतोऽपि कर्मपुलादानहेतावायवे बन्धहेतूनामभिधानमदुष्टम् । ननु तथापि बन्धहेतूनां पाठो निरर्थकः। नैवम्, बन्धाश्रवयोरेकत्वेनोक्तत्वात्. पाश्रवहेतूनामेवायं पाठ इति सर्वमवदातम् ।
पत्रान्तरलोका:
यः कर्मपुङ्गलादानहेतुः प्रोक्तः स प्राश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ १॥ ज्ञानदर्शनयोस्तहत् तडेतूनां च ये किल । विघ्ननिवपैशून्याशातनाघातमत्सराः ॥२॥ ते ज्ञानदर्शनाचारकर्महतव पाश्रवाः। देवपूजा गुरूपास्ति: पात्रदानं दया क्षमा ॥ ३ ॥ मरागसंयमो देशसंयमोऽकामनिर्जरा। शौचं बालतपश्चेति सद्देद्यस्य स्युराश्रवाः ॥ ४ ॥ दुःखशोकवधास्तापाक्रन्दने परिदेवनम् । खान्योभयस्था: स्यरसद्देद्यस्यामी इहाश्रवाः ॥ ५ ॥ वीतरागे श्रुते संधे धर्म सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता ॥ ६ ॥ सर्वसिद्धदेवापतवो धार्मिकदूषणम् । उन्मार्गदेशनाऽनग्रहोऽसंयतपूजनम् ॥ ७ ॥ असमौक्षितकारित्वं गुर्वादिष्ववमानना। इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ ८॥