________________
८
चतुर्थः प्रकायः। कषायोदयतस्तोत्रः परिणामो य प्रामनः । चारित्रमोहनीयस्य स प्रायव उदीरित: ॥॥ उत्प्रासनं सकन्दर्पोपहासो हासशीलता। बहुप्रलापो दैन्योतिर्हासस्थामौ स्युराश्रवाः ॥ १० ॥ देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जनं चेत्याश्रवाः कीर्तिता रतः ॥ ११ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् ।। अकुशलप्रोत्साहनं चारतेरावा अमौ ॥ १२ ॥ स्वयं भयपरीणामः परेषामथ भापनम् । वासनं निर्दयत्वं च भयं प्रत्याश्रवा अमौ ॥ १३ ॥ परशोकाविष्करणं स्वशोकोत्यादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः ॥ १४ ॥ चतुर्वर्णस्य सङ्घस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्यराश्रवाः ॥ १५ ॥ ईर्थाविषयगाय च मृषावादोऽतिवक्रता। परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ १६ ॥ खदारमानसन्तोषोऽनीर्था मन्दकषायता। अवक्राचारशीलत्वं पुंवेदस्याचवा इति ॥ १७ ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीवकामता। पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥ १८ ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता। मधमांसविरतानामविरत्यभिवर्णनम् ॥ १८ ॥