Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 65
________________ .. चतुर्थः प्रायः। संख्यावचनम्, योगान् मनोवाक्कायव्यापारलक्षणान् ; प्रमाद मद्यविषयकषायनिद्राविकथालक्षणं पञ्चविधम्, अनानसंशयविपर्ययरागद्देषस्मृतिभ्रंशधर्मानादरयोगदुष्प्रणिधानरूपतयाऽष्टविधं वाऽप्रमादेन तप्रतिपक्षभूतेन साधयेत् ; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाविरतिमनियमं साधयेत् ॥ ८४ ॥ इदानों मिथ्यात्वातरौद्रध्यानानां प्रतिपक्षानाह सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतातरौद्रे च संवरार्थं कृतोद्यमः ॥ ८५ ॥ सद्दर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्मशुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनातरौद्रध्याने विजयेत संवरार्थं संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी । अत्रान्तरमोका: यथा चतुष्पथस्थस्य बहुहारस्य वेश्मनः । अनावृतेषु हारेषु रजः प्रविशति ध्रुवम् ॥ १ ॥ प्रविष्टं सेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत हारेषु स्थगितेषु तु ॥ २ ॥ यथा वा सरसि कापि सर्वैरिविशेज्जलम् । तेषु तु प्रतिरुषु प्रविशेद न मनागपि ॥ ३ ॥ यथा वा यानपात्रस्य मध्यैरन्धैर्विशेज्जलम् । ... कृते रचपिधाने तु न स्तोकमपि तद विशेत् ॥ ४ ॥ .

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102