Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 53
________________ चतुर्थः प्रकाशः | नवभ्यो नेत्रश्रोत्रनासा मुखपाय पस्थेभ्य: स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् क्षरन् विस्रमामगन्धिर्योऽसौ रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् । अत्रान्तरश्लोकाः-- शुक्रशोणितसम्भूतो मलनिः स्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् १ ॥ १ ॥ मातृजग्धान्नपानोत्यरसं नाडीक्रमागतम् । पायं पायं विद्धः सन् शौचं मन्येत कस्तनौ ? ॥ २ ॥ दोषधातुमलाको कृमिगण्डूपदास्पदम् रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ॥ ३ ॥ सुस्वादून्यन्नपानानि क्षौरेक्षुविकृती अपि । भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ? ॥ ४ ॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । ८४१ मलीभवति यत्राश क्व शौचं तत्र वर्त्मणि ? ॥ ५ ॥ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो नियुत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि १ ॥ ६ ॥ स्वतः सुगन्धयो गन्धधूपपुष्पस्रगादयः । यमङ्गाद यान्ति दौर्गन्ध्यं सोऽपि काय: शचीयते ? ॥ ७ ॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां काय: शुण्डाघट इवाशुचिः ॥ ८ ॥ १०६

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102