________________
.
८४०
योगशास्त्रे भेदं विद्वान् न पीयेत पिटदुःखेऽप्युपस्थिते । । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ ८ ॥ अस्वत्वेन एहीतः सन् पुत्रोऽपि पर एव हि । स्व कोयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ८ ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तु न्यहो !
निबध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुवि तथभावनावर्जनाद भजेत ममताच्छिदे सततमन्यत्वभावनाम् ॥ १० ॥
॥ अन्यत्वभावना ॥ ७१ ॥ अथाशुचित्वभावनामाहरसासग्मांसमेदोऽस्थिमज्जाशुक्रान्ववर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥७२॥
रसो भुक्तपीतानपानपरिणामजो निस्यन्दः, अमृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम्, अस्थि को कसं मेदसम्भवम्, मज्जासारोऽस्थिसम्भवः, शुक्र रेती मज्जासम्भवम्, अन्वं पुरीतत्. वर्ची विष्ठा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम्-न कथञ्चिदित्यर्थः ॥ १२ ॥ ये त्वत्रापि शुचित्वमानिनस्तानुपालभते -
नवस्रोतःस्रवदिखरसनिःस्यन्दपिच्छिले ।.. देहेऽपि शौचसङ्कल्पो महन्मोहविजम्भितम् ॥७३॥