________________
२९
चतुर्थः प्रकाशः । ___ यो देहधनबन्धुभ्यो भिन्नमात्मानमीक्षते।
क्व शोकशगुना तस्य हन्तातङ्कः प्रतन्यते ॥ ७१ ॥
यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितुः, क्व नैवेत्यर्थः, शोकशङ्गुना । शोकशल्येन, हन्तेति हर्षार्थमव्ययम्, आतङ्कः पीडा प्रतन्यते क्रियते।
अत्रान्तरश्लोकाःइहान्यत्वं भवेद भेदः स वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ॥ १ ॥ देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः। तदेतेषामनन्यत्वं कथं नामोपपद्यते ॥ २ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपोद्यते ॥ ३ ॥ सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादावात्मपीडोपजायते ॥ ४ ॥ ये तु देहात्मनोभदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपोद्यते ॥ ५ ॥ तथाहि लोहचक्रण क्षरेयोपचनेन च । देहबाधेिऽप्यबाधात्मा तज्दज्ञोऽन्तिमो जिन: ॥ ६ ॥ नमिर्धनात्मभेदतः पूर्दाहेऽपोन्द्रमब्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दह्यते ॥ ७॥