SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे एकः पापात् पतति नरके याति पुण्यात् स्वरेक: पुण्यापुण्यप्रचयविगमाद मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथां निर्ममत्वस्य हेतोरेकत्वाख्यामवहितधियो भावनां भावयन्तु ॥ १० ॥ ॥ एकत्वभावना ॥ ६८ ॥ ८३८ अथान्यत्वभावनामाह यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥ ७० ॥ यत्रेति प्रक्रमार्थमव्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्मादु भेदः ? शरोरिण आत्मनः सकाशात् । कुतो हेतोः ? । वैसदृश्यात् । प्रतोतमेव हि वैसदृश्यं शरीरशरीरिणोर्मूर्त त्वा मूर्तत्वाभ्याम्, अचेतनत्वचेतनत्वाभ्याम्, अनित्यत्वनित्यत्वाभ्याम् भवान्तरेष्वगमनगमनाभ्यां च । तत्रेति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न दुर्वचं न दुर्भणम् । केषाम् ? धनबन्धुसहायानां धनानां धनधान्यादिभेदैर्नवविधानाम्, बन्धूनां मातृ पिटपुत्रादीनाम्, सहायानां सुहृत्-सेवक- पत्त्यादीनाम् । अयमर्थ:यो जीवात् शरीरस्योपपत्त्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं शक एवेति ॥ ७० ॥ न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम्, किन्तु तत्फलान्तरमप्यस्ति, तदेवाह - --
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy