SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ८३७ चतुर्थः प्रकाशः। पुनर्भुज्यते वित्तस्य विनियोगः क्रियते। स तु वित्तस्यार्जयिता ए को भोक्तलोकविरहितो नरक कोडे नरकोत्सङ्गे क्लिश्यते बाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ॥ अत्रान्तरश्लोकाः दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने। बम्भ्रमीत्येक एवासी जन्तुः कर्मवशीकत: ॥ १ ॥ ननु जीवस्य मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥ २ ॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् संफेटमिलितः कथम् ? ॥ ३ ॥ धर्माधर्मों समासन्नौ सहायाविति चेद् मतिः । नैषा सत्या, न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४ ॥ तस्मादेको बभ्रमौति भवे कुर्वन् शुभाशुभे । । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥ ५ ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥ ६ ॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्क्ते तद् न सहायोऽस्ति कश्चन ॥ ७ ॥ यथैवैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ॥ ८ ॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । वस्थ एको भवाम्भोधे: पारमासादयत्यसौ ॥ ८ ॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy