SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ८३६ योगशास्त्रे . एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । जात्वेवं ममतानिरासविधये ध्यायन्तु शुद्धाशया अथान्तं भवभावनां भवभयच्छे दोन्मुखत्वं यदि ॥ ८ ॥ ___॥ संसारभावना ॥ ६७ ॥ अथैकत्वभावनां श्लोकहयेनाह. एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८॥ एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहण मुपलक्षणम्, इहजन्मक्तानाम प्यनुभवात्, यदाहुभगवन्तः ;-परलोअकडाकम्मा इहलोए वेइज्जति, इहलोअकडा कम्मा इहलोए वेइज्जति ॥ ६८ ॥ तथा अन्यैम्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरकक्रीडे क्लिश्यते निजकर्मभिः ॥६६॥ तेनेकेन जन्तु नाऽर्जितं महारम्भपरिग्रहादिनोपार्जितं वित्तमन्यैः सम्बन्धिबन्धुभृत्यप्रभृतिभिः सम्भूय मिलित्वा भूयः पुनः (१) परलोककृतानि कर्माणि इहलोके वेद्यन्ते । इहलोके कृतानि कर्माणि इहलोके वेद्यन्ते । . .
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy