Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः ।
ज्ञानदर्शनचारित्ररत्नत्रितयभाजने ।
मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥
संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिदु मानुष्यं हा ! रत्नमिव हार्यते ॥ ५८ ॥ लब्धे मानुष्य के स्वर्ग- मोक्षप्राप्तिनिबन्धने ।
हा ! नरकाप्युपायेषु कर्मसूत्तिष्ठते जनः ॥ ६० ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥ ६१ ॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः प्रपञ्चेन किमर्थमुपवर्ण्यते ? ॥ ६२ ॥ शोकामविषादेर्ष्या दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ ६३ ॥ दृष्ट्वा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्प सुकृतं शोचन्ति सुचिरं सुराः ॥ ६४ ॥ विराडा बलिनान्येन प्रतिकर्तुं तमक्षमाः । तौक्ष्णेनामर्षशल्येन दोदूयन्ते निरन्तरम् ॥ ६५ ॥ न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः । दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥ ६६ ॥ दृष्टवान्येषां विमानस्त्रीरत्नोपवनसम्पदम् । यावज्जीवं विपच्यन्ते ज्वलदीर्ष्यानलोर्मिभिः ॥ ६७ ॥ हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगहदम् । परैर्मुषितसर्वस्वा भाषन्ते दोनवृत्तयः ॥ ६८ ॥
१०५
८३३
Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102