Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 44
________________ योगशास्त्रे वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः । छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥ २५ ॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तभिः ॥ २६ ॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभचनैः।। क्रियन्ते भस्मसाद दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ २७ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ॥ २८॥ . दौन्द्रियत्वे च ताप्यन्त पीयन्ते पूतरादयः । चूयन्ते क्कमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ २८ ॥ शङ्गादयो निखन्यन्ते निकष्यन्ते जलौकसः । गण्डपदाद्याः पात्यन्त जठरादौषधादिभिः ॥ ३० ॥ नौन्द्रियत्वेऽपि सम्प्राप्ते षट्पदौमत्कुणादयः । विमृज्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥ ३१ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चासनादिभिः ॥ ३२ ॥ चतुरिन्द्रियताभाज: सरधानमरादयः । मधुमक्षविराध्यन्ते यष्टिलोष्टादिताडनैः ॥ ३३ ॥ ताद्यन्ते तालबन्ताद्यैर्दाग दंशमशकादयः । ग्रस्यन्ते ग्रहगोधाद्यैर्मक्षिकामर्कटादयः ॥ ३४ ॥ पञ्चेन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५ ॥ '

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102