Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 43
________________ चतुर्थः प्रकाशः । एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रयस्त्रिंशसागरम् ॥ १४ ॥ तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यै केन्द्रियादिताम् । तत्रापि पृथिवीकायरूपतां समुपागताः ॥ १५ ॥ हलादिशस्त्रैः पाठ्यन्ते मृद्यन्तेऽखगजादिभिः । वारिप्रवाहैः प्लाव्यन्ते दान्ते च दवाग्निना ॥ १६ ॥ व्यथ्यन्ते लवणाचाम्लमूत्रादिसलिलैरपि । लवणचारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि ॥ १७ ॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च कृत्वा कर्दमरूपताम् ॥ १८ ॥ केच्चिच्छाणैर्निष्टष्यन्ते विपच्य क्षारमृत्युटैः । टङ्कान्दुकैर्विदार्यन्ते पाव्यन्तेऽद्रिसरित्प्लवैः ॥ १८ ॥ अकायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनोक्रियन्ते तुहिनैः संशोष्यन्ते च पांशुभिः ॥ २० ॥ चारेतररसाचेषाद विपद्यन्ते परस्परम् । स्थात्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ २१ ॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुव्यन्ते ज्वाल्यन्ते चेन्धनादिभिः ॥ २२ ॥ वायुकायत्वमप्याता हन्यन्ते व्यजनादिभिः । शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ २३ ॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः ॥ २४ ॥ FIL

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102