Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 33
________________ चतुर्थः प्रकाशः। ८१८ अशौचमाश्रवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं हादशौं बोधिभावनाम् ॥५६॥ साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्यनिर्ममत्वयोः को भेदः १। उच्यते-साम्यं राग-द्वेषयोरुभयोरपि प्रतिपक्षभूतम, निर्ममत्वं रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषहयनिवारणाय साम्ये चिकौर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतनिर्ममत्वं होनबलानां देषादीनां विनाशायेति। अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति-तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी। प्रकता भावना नामतः कथयतिअनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६ ॥ तदाथा। तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमां भावनां दर्शयति यत्यातस्तन्न मध्याह्ने यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही! पदार्थानामनित्यता ॥५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ५८ ॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102