________________
चतुर्थः प्रकाशः।
८१८ अशौचमाश्रवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं हादशौं बोधिभावनाम् ॥५६॥
साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्यनिर्ममत्वयोः को भेदः १। उच्यते-साम्यं राग-द्वेषयोरुभयोरपि प्रतिपक्षभूतम, निर्ममत्वं रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषहयनिवारणाय साम्ये चिकौर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतनिर्ममत्वं होनबलानां देषादीनां विनाशायेति। अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति-तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी। प्रकता भावना नामतः कथयतिअनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६ ॥
तदाथा। तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमां भावनां दर्शयति
यत्यातस्तन्न मध्याह्ने यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही! पदार्थानामनित्यता ॥५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ५८ ॥