Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 15
________________ चतुर्थः प्रकाशः। ८.५ तदपि कुतः निर्गतस्तत्त्वभावनादिनिवारकत्वात् अङ्गुशो यस्माद स तथा। प्रपातयति प्रकर्षेण पातयति संसार एवावर्तप्रधानोगतस्तत्र । जगत्त्रयोमिति। न स कश्चिद जन्तुजंगचयेऽप्यस्ति, यो निरङ्कुशेन मनसा संसारावर्त्तगर्ते न पात्यते। जगत्त्रयगतानां जन्तूनां संसारावर्तगर्ते पातनाद जगत्रयौं पातयतीति उपचारादुक्तम् ॥ ३५ ॥ पुनरनियन्त्रिते मनसि दोषमाहतप्यमानांस्तपो मुक्ती गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यव कुत्रचित् ॥ ३६ ॥ तप्यमानान् कुर्वाणान् किं तत्तपः। तथा मुक्ती मोक्ष गन्तुकामान् गन्तुमध्यवसितान् शरीरिणी जन्तुन् । तरलमेकनाऽनवस्थायि चेतो भावमनः कर्तृ क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ। किंवद वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षिताद् देशात् अन्यत्र नयति, एवं तरलं चेतोऽपि ॥ ३६॥ पुनरनियन्त्रितस्य मनसो दोषमाहअनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुर्गामं स पङ्गुरिव हस्यते ॥ ३७॥ न निरुडं चापल्यात् . च्यावितं मनी येन सोऽनिरुतमनस्कः सन् योगश्रद्धां अहं योगीत्यभिमानं यो दधाति धारयति स हस्यते विवे किभिः । क इव कथम्भूतः पङ्गुरिव पद्भ्यां पादाभ्यां नामान्तरं

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102