Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
योगशास्त्रे
जिगमिषुः । पादप्रचाररूपों हि मनोरोधस्तदभावे कथं पडुग्रामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥
न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला यावदशुभकर्माणि बहुतराण्यस्य प्रादुःषन्तीत्युत्तरार्डेन प्रतिपादयितुं पूर्वार्डेन काक्का मनोरोधमुपदिशति
८०४
मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ ३८ ॥
मनमो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते श्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यति प्रबलानि समन्ततः सामस्त्येन । मनोरोधायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति अनिरुद्धमनस्कस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥
तदेतन्निश्चित्य मनोनियन्त्रणाय यत्नः कार्य इत्येतदाह
मनः कपिरयं विश्व परिभ्रमणलम्पटः । नियन्त्रणौयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३६॥
मनो भावमन एवं कपिर्मर्कटः । अयमिति सर्वेषां स्वसंवेदनसिद्ध: कपित्वरूपेण साधर्म्यमाह – विश्वस्मिन् जगति परिभ्रमणमन्यान्यविषयग्रहरूपं मनवस्थानं तत्र लम्पटो लोलुपस्वदेवंविधो मनः कपिर्नियन्त्रणीयो निरोद्धव्यः । चापलं परित्याज्योचिते विषये परिस्थाप्यः । यत्नेन तत्त्वाभ्यासरूपेण ।
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102