SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे जिगमिषुः । पादप्रचाररूपों हि मनोरोधस्तदभावे कथं पडुग्रामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥ न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला यावदशुभकर्माणि बहुतराण्यस्य प्रादुःषन्तीत्युत्तरार्डेन प्रतिपादयितुं पूर्वार्डेन काक्का मनोरोधमुपदिशति ८०४ मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ ३८ ॥ मनमो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते श्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यति प्रबलानि समन्ततः सामस्त्येन । मनोरोधायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति अनिरुद्धमनस्कस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥ तदेतन्निश्चित्य मनोनियन्त्रणाय यत्नः कार्य इत्येतदाह मनः कपिरयं विश्व परिभ्रमणलम्पटः । नियन्त्रणौयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३६॥ मनो भावमन एवं कपिर्मर्कटः । अयमिति सर्वेषां स्वसंवेदनसिद्ध: कपित्वरूपेण साधर्म्यमाह – विश्वस्मिन् जगति परिभ्रमणमन्यान्यविषयग्रहरूपं मनवस्थानं तत्र लम्पटो लोलुपस्वदेवंविधो मनः कपिर्नियन्त्रणीयो निरोद्धव्यः । चापलं परित्याज्योचिते विषये परिस्थाप्यः । यत्नेन तत्त्वाभ्यासरूपेण ।
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy