________________
चतुर्थः प्रकाशः।
८.५
तदपि कुतः निर्गतस्तत्त्वभावनादिनिवारकत्वात् अङ्गुशो यस्माद स तथा। प्रपातयति प्रकर्षेण पातयति संसार एवावर्तप्रधानोगतस्तत्र । जगत्त्रयोमिति। न स कश्चिद जन्तुजंगचयेऽप्यस्ति, यो निरङ्कुशेन मनसा संसारावर्त्तगर्ते न पात्यते। जगत्त्रयगतानां जन्तूनां संसारावर्तगर्ते पातनाद जगत्रयौं पातयतीति उपचारादुक्तम् ॥ ३५ ॥
पुनरनियन्त्रिते मनसि दोषमाहतप्यमानांस्तपो मुक्ती गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यव कुत्रचित् ॥ ३६ ॥
तप्यमानान् कुर्वाणान् किं तत्तपः। तथा मुक्ती मोक्ष गन्तुकामान् गन्तुमध्यवसितान् शरीरिणी जन्तुन् । तरलमेकनाऽनवस्थायि चेतो भावमनः कर्तृ क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ। किंवद वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षिताद् देशात् अन्यत्र नयति, एवं तरलं चेतोऽपि ॥ ३६॥
पुनरनियन्त्रितस्य मनसो दोषमाहअनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुर्गामं स पङ्गुरिव हस्यते ॥ ३७॥
न निरुडं चापल्यात् . च्यावितं मनी येन सोऽनिरुतमनस्कः सन् योगश्रद्धां अहं योगीत्यभिमानं यो दधाति धारयति स हस्यते विवे किभिः । क इव कथम्भूतः पङ्गुरिव पद्भ्यां पादाभ्यां नामान्तरं