SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ८०२ योगशास्त्रे एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं द्वेषं तथेन्द्रियजयाय कृताऽभिलाषः ॥ १४ ॥ अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याहमनः शुद्धया मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमवृद्धसेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा, अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मनः शुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यमनियमाद्युपायबलाद नियन्त्रिते मनसि भवति ॥ ३४ ॥ अनियन्त्रितमनो यत्करोति तदाह मनः चपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्त्रयम् ॥३५॥ इह द्विविधं मनः । द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः | भावमनस्तु तदुद्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात्, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् अपशङ्कं निर्भयं यथा भवति ।
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy