________________
चतुर्थः प्रकाशः ।
.८०५ किं कुर्वद्भिः मुक्ति मोक्षमिच्छन्तीत्येवंशीलास्तरात्मनः स्वस्य । मनचापलनिरोधस्य साध्या हि मुक्तिरिति ॥ ३८ ॥
इदानीमिन्द्रियजयहेतुं मनःशुद्धिं प्रस्तौति
दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी। एकैव मनसः शुद्धिः समानाता मनीषिभिः ॥४०॥ एकैव सा यमनियमादिरहितापि मन:शुद्धिः दीपिकेव दीपिका, किंविशिष्टा ?, अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, मुमुक्षी इति शेषः, समानाता. पारम्पर्येण कथिता, कैः, मनीषिभिः पूर्वाचार्यैः, यदाह
ज्ञान ध्याने दाने माने मोने सदोद्यतो भवतु ।
यदि निर्मलं न चित्तं तदा हुतं भस्म नि समग्रम् ॥१॥४०॥ मन:शुद्धेरन्वयव्यतिरेकाभ्यां गुणान्तरदर्शनेनोपदेशमाहसत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गणाः । सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः ॥४१॥
यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमामा अपि सन्ति भवन्ति । तत्फलसद्भावाद् गुणाः क्षान्त्यादयः; सन्तो विद्यमाना अपि गुणा असत्यां मनसः शुद्धो नो सन्ति न सन्त्येव, तत्फलाभावात्। ततः कारणादन्वयव्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिभिः ॥४१॥...: