SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ८० योगशास्त्र : ये तु प्रास्तामषा मन:शुद्धिः, तपोबलेनैव मुक्ति वयं साधयिष्यामः, इति प्रतिपद्यन्ते. तान् प्रत्याह मनःशुद्धिमबिधाणा ये तपस्यन्ति मुक्तये । त्यता नावं भुजाभ्यां ते तितौर्षन्ति महार्णवम् ॥४२॥ मनःशुद्धिमविधाणा अधारयन्तो ये मुक्तये मुक्ति निमित्तं तपस्यन्ति तपःक्लेशमनुभवन्ति, त दुर्ग्रहग्रहिलाः संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः, तथा मन:शहिमन्तरेण तपसा मुक्तिर्दुष्पापा ॥४२॥ - ये तु ध्यानं तपःसहितं मुक्तिदं इति वदन्ती मन:शुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारणं इति प्रतिपन्नास्तान् प्रत्याह तपखिनो मनःशुद्धिविनाभूतस्य सर्वथा। . ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पण: ॥४३॥ तपस्विनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किं विशिष्टस्य ? । सर्वथा मन:शुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मन:शुद्धिरहितानामपि तपोध्यानबलेन नवमवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम् । मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा। यथा दर्पणो रूपनिरूपणकारणमपि चतुर्विकलस्य मुधा, तथा ध्यानमपौति भावः ॥४३॥. .
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy