________________
८०१
चतुर्थः प्रकाशः । अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः । .. रागद्देषौ पुनस्तत्र मतिमान् परिवर्जयेत् ॥ ३ ॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥ ४ ॥ जितान्यक्षाणि मोक्षाय संसारायाऽजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ॥ ५ ॥ स्पर्श मृदौ च तूल्यादेरुपलादेश्च कर्कशे । .. भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६ ॥ रसे स्वादौ च भक्ष्यादेरितरस्मिवथापि वा। प्रोत्यप्रोती विमुच्योच्चैजिह्वेन्द्रियजयी भव ॥ ७ ॥ . घ्राणदेशमनुप्राप्त शुभे गन्धेऽपरत्र वा। ज्ञात्वा वस्तु परीणाम घ्राणन्द्रियजयं कुरु ॥ ८ ॥ मनोजं रूपमालोक्य यदिवा तहि लक्षणम् । त्य जन् हर्ष जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ८ ॥ खरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे । रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव ॥ १० ॥ कोऽपि नास्तीह विषयो मनोज इतरोऽपि वा। य इन्द्रियैः नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ॥ ११ ॥ शुभा अप्यशभायन्ते शुभायन्तेऽशभा अपि। विषयास्तत क रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ स एव रुच्यो हेण्यो वा विषयो यदि हेतुतः । । शुभाशुभत्वं भावानां तत्र तत्त्वेन जातुचित् ॥ १३ ॥
१०१