Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
८०
योगशास्त्र : ये तु प्रास्तामषा मन:शुद्धिः, तपोबलेनैव मुक्ति वयं साधयिष्यामः, इति प्रतिपद्यन्ते. तान् प्रत्याह
मनःशुद्धिमबिधाणा ये तपस्यन्ति मुक्तये । त्यता नावं भुजाभ्यां ते तितौर्षन्ति महार्णवम् ॥४२॥
मनःशुद्धिमविधाणा अधारयन्तो ये मुक्तये मुक्ति निमित्तं तपस्यन्ति तपःक्लेशमनुभवन्ति, त दुर्ग्रहग्रहिलाः संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः, तथा मन:शहिमन्तरेण तपसा मुक्तिर्दुष्पापा ॥४२॥ - ये तु ध्यानं तपःसहितं मुक्तिदं इति वदन्ती मन:शुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारणं इति प्रतिपन्नास्तान्
प्रत्याह
तपखिनो मनःशुद्धिविनाभूतस्य सर्वथा। . ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पण: ॥४३॥ तपस्विनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किं विशिष्टस्य ? । सर्वथा मन:शुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मन:शुद्धिरहितानामपि तपोध्यानबलेन नवमवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम् । मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा। यथा दर्पणो रूपनिरूपणकारणमपि चतुर्विकलस्य मुधा, तथा ध्यानमपौति
भावः ॥४३॥. .
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102