Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
चतुर्थः प्रकाशः ।
शद्दत्वं हित्वा आत्मा भावमनोरूपः खकीये स्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ॥ ४५ ॥
अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाह -
८११
आत्मायत्तमपि खान्तं कुर्वतामव योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥
आत्मायत्तमपि आत्मनि निमग्नमपि स्वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी रागद्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्त द्दिष्टं मूढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥
तथा
रक्ष्यमाणमपि खान्तं समादाय मनाग् मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥४७॥
रक्ष्यमाणमपि गोप्यमानमपि यमनियमादिभिर्मन्त्र तन्त्रप्रायः स्वान्तं भावमनः, समादाय पुरस्कृत्य मनाग् मिषं स्वल्पं छलं प्रमादरूपं, छलयन्ति - श्रात्मवशं कुर्वन्ति । क एते ? रागादयः क इव ? पिशाचा द्रव | मुहुर्मुहुरिति यदा यदा प्रमादलेशोऽपि भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिक्कतरक्षमपि साधकं वलं प्राप्यात्मवशं कुर्वन्ति, तथा रागादयोऽपि योगिमन इति ॥४७॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102