Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 20
________________ ८०२ योगशास्त्रे एवं विमृश्य विषयेषु शुभाशुभत्व पाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं द्वेषं तथेन्द्रियजयाय कृताऽभिलाषः ॥ १४ ॥ अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याहमन:शुधा मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमव्लड सेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा, अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्दसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मन:शुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यमनियमाद्युपायबलाद नियन्त्रिते मनसि भवति ॥ ३४ ॥ अनियन्त्रितमनो यत्करोति तदाह मनः चपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्त्रयीम् ॥३५॥ इह द्विविधं मनः । द्रव्यमनो भावमनश्च । तव द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः । भावमनस्तु तद्द्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात्, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् अपशङ्कं निर्भयं यथा भवति ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102